वासुदेव स्तोत्रम् (महाभारतम्)

(श्रीमहाभारते भीष्मपर्वणि पञ्चषष्टितमोऽध्याये श्लो: 47) विश्वावसुर्विश्वमूर्तिर्विश्वेशोविष्वक्सेनो विश्वकर्मा वशी च ।विश्वेश्वरो वासुदेवोऽसि तस्मा–द्योगात्मानं दैवतं त्वामुपैमि ॥ 47 ॥ जय विश्व महादेव जय लोकहितेरत ।जय योगीश्वर विभो जय योगपरावर ॥ 48 ॥…

Read more

नारायणीयं दशक 100

अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयंपीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै-रावीतं नारदाद्यैर्विलसदुपनिषत्सुन्दरीमण्डलैश्च ॥1॥ नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्यारत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहंस्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥2 हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै-रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते…

Read more

नारायणीयं दशक 99

विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीतेयस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत्योसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायांत्वद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥1॥ आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते-र्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ…

Read more

नारायणीयं दशक 98

यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत-द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्राःनो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥1॥ जन्माथो कर्म नाम स्फुटमिह…

Read more

नारायणीयं दशक 97

त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वंप्राहुर्नैगुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥1॥ त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थंत्वद्भक्तैः सेव्यमानानपि…

Read more

नारायणीयं दशक 96

त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार-स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयोनागानामस्यनन्तस्सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥1॥ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थोभक्तानामुद्धवस्त्वं बलमसि…

Read more

नारायणीयं दशक 95

आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वंजीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने ।तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेनछित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥1॥ सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन्भूयोऽप्येषु प्रवृत्तिस्सतमसि रजसि प्रोद्धते दुर्निवारा…

Read more

नारायणीयं दशक 94

शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं तेशुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते ।नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं तेवह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥1॥ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार-ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरेदाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥2॥ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायोनैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।दुर्वैकल्यैरकल्या…

Read more

नारायणीयं दशक 93

बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मासर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् ।नानात्वाद्भ्रान्तिजन्यात् सति खलु गुणदोषावबोधे विधिर्वाव्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥1॥ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवः सन्त्यनन्ता-स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव…

Read more

नारायणीयं दशक 92

वेदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वातानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ।मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति-र्दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥1॥ यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिंहृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा…

Read more