नारायणीयं दशक 81

स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामांयातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यांसशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥1॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानांत्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन…

Read more

नारायणीयं दशक 80

सत्राजितस्त्वमथ लुब्धवदर्कलब्धंदिव्यं स्यमन्तकमणिं भगवन्नयाचीः ।तत्कारणं बहुविधं मम भाति नूनंतस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसाप्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्कपीन्द्रस्तं हत्वा मणिमपि च बालाय…

Read more

नारायणीयं दशक 79

बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः ।द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥1॥ भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥2॥ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा ।निरगमत् भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥3॥…

Read more

नारायणीयं दशक 78

त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥1॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥2॥ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः ।स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन्…

Read more

नारायणीयं दशक 77

सैरन्ध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सुललितमुद्धवेन सार्धम् ।आवासं त्वदुपगमोत्सवं सदैवध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥1॥ उपगते त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकम्प्रपयोधराम् ।विविधमाननमादधतीं मुदा रहसि तां रमयाञ्चकृषे सुखम् ॥2॥ पृष्टा वरं पुनरसाववृणोद्वराकीभूयस्त्वया सुरतमेव निशान्तरेषु ।सायुज्यमस्त्विति वदेत् बुध एव…

Read more

नारायणीयं दशक 77

सैरन्ध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सुललितमुद्धवेन सार्धम् ।आवासं त्वदुपगमोत्सवं सदैवध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥1॥ उपगते त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकम्प्रपयोधराम् ।विविधमाननमादधतीं मुदा रहसि तां रमयाञ्चकृषे सुखम् ॥2॥ पृष्टा वरं पुनरसाववृणोद्वराकीभूयस्त्वया सुरतमेव निशान्तरेषु ।सायुज्यमस्त्विति वदेत् बुध एव…

Read more

नारायणीयं दशक 76

गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिःसर्वज्ञस्त्वं सह मुसलिना सर्वविद्या गृहीत्वा ।पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थंदत्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥1॥ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाःकारुण्येन त्वमपि विवशः प्राहिणोरुद्धवं तम् ।किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासांभक्त्युद्रेकं सकलभुवने दुर्लभं…

Read more

नारायणीयं दशक 75

प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्येसङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषोरङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥1॥ पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे-रम्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्यव्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो…

Read more

नारायणीयं दशक 74

सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस-न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥1॥ त्वत्पादद्युतिवत् सरागसुभगाः त्वन्मूर्तिवद्योषितःसम्प्राप्ता विलसत्पयोधररुचो लोला भवत् दृष्टिवत् ।हारिण्यस्त्वदुरःस्थलीवदयि ते मन्दस्मितप्रौढिव-न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥2॥ तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत-व्यालोलेषु जनेषु तत्र…

Read more

नारायणीयं दशक 73

निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥1॥ करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥2॥ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।परितापभरं नितम्बिनीनां…

Read more