नारायणीयं दशक 72
कंसोऽथ नारदगिरा व्रजवासिनं त्वा-माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।आहूय कार्मुकमखच्छलतो भवन्त-मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥ अक्रूर एष भवदङ्घ्रिपरश्चिरायत्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-मानन्दभारमतिभूरितरं बभार ॥2॥ सोऽयं रथेन सुकृती भवतो निवासंगच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।आस्वादयन् मुहुरपायभयेन दैवंसम्प्रार्थयन्…
Read more