नारायणीयं दशक 38
आनन्दरूप भगवन्नयि तेऽवतारेप्राप्ते प्रदीप्तभवदङ्गनिरीयमाणैः ।कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-मावृण्वती विरुरुचे किल वर्षवेला ॥1॥ आशासु शीतलतरासु पयोदतोयै-राशासिताप्तिविवशेषु च सज्जनेषु ।नैशाकरोदयविधौ निशि मध्यमायांक्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥ बाल्यस्पृशाऽपि वपुषा दधुषा विभूती-रुद्यत्किरीटकटकाङ्गदहारभासा ।शङ्खारिवारिजगदापरिभासितेनमेघासितेन परिलेसिथ सूतिगेहे ॥3॥ वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।तन्मन्दिरस्य…
Read more