नारायणीयं दशक 18

जातस्य ध्रुवकुल एव तुङ्गकीर्ते-रङ्गस्य व्यजनि सुतः स वेननामा ।यद्दोषव्यथितमतिः स राजवर्य-स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥1॥ पापोऽपि क्षितितलपालनाय वेनःपौराद्यैरुपनिहितः कठोरवीर्यः ।सर्वेभ्यो निजबलमेव सम्प्रशंसन्भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥2॥ सम्प्राप्ते हितकथनाय तापसौघेमत्तोऽन्यो भुवनपतिर्न…

Read more

नारायणीयं दशक 17

उत्तानपादनृपतेर्मनुनन्दनस्यजाया बभूव सुरुचिर्नितरामभीष्टा ।अन्या सुनीतिरिति भर्तुरनादृता सात्वामेव नित्यमगतिः शरणं गताऽभूत् ॥1॥ अङ्के पितुः सुरुचिपुत्रकमुत्तमं तंदृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।आचिक्षिपे किल शिशुः सुतरां सुरुच्यादुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥2॥ त्वन्मोहिते पितरि पश्यति दारवश्येदूरं…

Read more

नारायणीयं दशक 16

दक्षो विरिञ्चतनयोऽथ मनोस्तनूजांलब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।धर्मे त्रयोदश ददौ पितृषु स्वधां चस्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥1॥ मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तंनारायणं नरसखं महितानुभावम् ।यज्जन्मनि प्रमुदिताः कृततूर्यघोषाःपुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥2॥…

Read more

नारायणीयं दशक 15

मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्तात्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।महदनुगमलभ्या भक्तिरेवात्र साध्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥1॥ प्रकृतिमहदहङ्काराश्च मात्राश्च भूता-न्यपि हृदपि दशाक्षी पूरुषः पञ्चविंशः ।इति विदितविभागो मुच्यतेऽसौ प्रकृत्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥2॥ प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयंयदि तु…

Read more

नारायणीयं दशक 14

समनुस्मृततावकाङ्घ्रियुग्मःस मनुः पङ्कजसम्भवाङ्गजन्मा ।निजमन्तरमन्तरायहीनंचरितं ते कथयन् सुखं निनाय ॥1॥ समये खलु तत्र कर्दमाख्योद्रुहिणच्छायभवस्तदीयवाचा ।धृतसर्गरसो निसर्गरम्यंभगवंस्त्वामयुतं समाः सिषेवे ॥2॥ गरुडोपरि कालमेघक्रमंविलसत्केलिसरोजपाणिपद्मम् ।हसितोल्लसिताननं विभो त्वंवपुराविष्कुरुषे स्म कर्दमाय ॥3॥ स्तुवते पुलकावृताय तस्मैमनुपुत्रीं दयितां…

Read more

नारायणीयं दशक 13

हिरण्याक्षं तावद्वरद भवदन्वेषणपरंचरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिःशनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥1॥ स मायावी विष्णुर्हरति भवदीयां वसुमतींप्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।नदन् क्वासौ क्वासविति स मुनिना दर्शितपथोभवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात्…

Read more

नारायणीयं दशक 12

स्वायम्भुवो मनुरथो जनसर्गशीलोदृष्ट्वा महीमसमये सलिले निमग्नाम् ।स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-तुष्टाशयं मुनिजनैः सह सत्यलोके ॥1॥ कष्टं प्रजाः सृजति मय्यवनिर्निमग्नास्थानं सरोजभव कल्पय तत् प्रजानाम् ।इत्येवमेष कथितो मनुना स्वयम्भूः –रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥…

Read more

नारायणीयं दशक 11

क्रमेण सर्गे परिवर्धमानेकदापि दिव्याः सनकादयस्ते ।भवद्विलोकाय विकुण्ठलोकंप्रपेदिरे मारुतमन्दिरेश ॥1॥ मनोज्ञनैश्रेयसकाननाद्यै-रनेकवापीमणिमन्दिरैश्च ।अनोपमं तं भवतो निकेतंमुनीश्वराः प्रापुरतीतकक्ष्याः ॥2॥ भवद्दिद्दृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् ।तेषां च चित्ते पदमाप कोपःसर्वं भवत्प्रेरणयैव भूमन् ॥3॥ वैकुण्ठलोकानुचितप्रचेष्टौकष्टौ युवां…

Read more

नारायणीयं दशक 10

वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा-दम्भोजयोनिरसृजत् किल जीवदेहान् ।स्थास्नूनि भूरुहमयानि तथा तिरश्चांजातिं मनुष्यनिवहानपि देवभेदान् ॥1॥ मिथ्याग्रहास्मिमतिरागविकोपभीति-रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।उद्दामतामसपदार्थविधानदून –स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥2॥ तावत् ससर्ज मनसा सनकं सनन्दंभूयः सनातनमुनिं च सनत्कुमारम् ।ते…

Read more

नारायणीयं दशक 9

स्थितस्स कमलोद्भवस्तव हि नाभिपङ्केरुहेकुतः स्विदिदमम्बुधावुदितमित्यनालोकयन् ।तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन-श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥1॥ महार्णवविघूर्णितं कमलमेव तत्केवलंविलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।क एष कमलोदरे महति निस्सहायो ह्यहंकुतः स्विदिदम्बुजं समजनीति चिन्तामगात् ॥2॥ अमुष्य हि सरोरुहः…

Read more