शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं तेशुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते ।नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं तेवह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥1॥ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार-ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरेदाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥2॥ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायोनैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।दुर्वैकल्यैरकल्या…
Read more