अवनितलं पुनरवतीर्णा स्यात्
संस्कृतगंगाधारा ।
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धाराः ॥

निपततु पंडितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्
यांतु च जन्मविकाराः ॥ 1 ॥

ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं संति विचाराः ॥ 2 ॥

या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूराः ॥ 3 ॥

रचन: डा. नारायणभट्टः