शुद्धोसि बुद्धोसि निरंजनोऽसि
संसारमाया परिवर्जितोऽसि ।
संसारस्वप्नं त्यज मोहनिद्रां
मदालसोल्लापमुवाच पुत्रम् ॥ 1 ॥

शुद्धोऽसि रे तात न तेऽस्ति नाम
कृतं हि तत्कल्पनयाधुनैव ।
पंचात्मकं देह-मिदं न तेऽस्ति
नैवास्य त्वं रोदिषि कस्य हेतो ॥ 2 ॥

न वै भवान् रोदिति विक्ष्वजन्मा
शब्धोयमायाध्य महीश सूनूम् ।
विकल्प्यमानो विविधैर्गुणैस्ते
गुणाश्च भौताः सकलेंदियेषु ॥ 3 ॥

भूतानि भूतैः परिदुर्बलानि
वृद्धिं समायांति यथेह पुंसः ।
अन्नांबुपानादिभिरेव तस्मात्
न तेस्ति वृद्धिर् न च तेस्ति हानिः ॥ 4 ॥

त्वं कंचुके शीर्यमाणे निजोस्मिन्
तस्मिन् देहे मूढतां मा व्रजेथाः ।
शुभाशुभौः कर्मभिर्देहमेतत्
मृदादिभिः कंचुकस्ते पिनद्धः ॥ 5 ॥

तातेति किंचित् तनयेति किंचित्
अंबेति किंचिद्धयितेति किंचित् ।
ममेति किंचिन्न ममेति किंचित्
त्वं भूतसंघं बहु म नयेथाः ॥ 6 ॥

सुखानि दुःखोपशमाय भोगान्
सुखाय जानाति विमूढचेताः ।
तान्येव दुःखानि पुनः सुखानि
जानाति विद्धन विमूढ चेताः ॥ 7 ॥

यानं चित्तौ तत्र गतश्च देहो
देहोऽपिचान्यः पुरुषो निविष्ठः ।
ममत्वमुरोया न यथ तथास्मिन्
देहेति मात्रं बत मूढरौष ॥ 8 ॥