सरलभाषा संस्कृतं सरसभाषा संस्कृतम् ।
सरससरलमनोज्ञमङ्गलदेवभाषा संस्कृतम् ॥ 1 ॥

मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् ।
मृदुलमधुरमनोहरामृततुल्यभाषा संस्कृतम् ॥ 2 ॥

देवभाषा संस्कृतं वेदभाषा संस्कृतम् ।
भेदभावविनाशकं खलु दिव्यभाषा संस्कृतम् ॥ 3 ॥

अमृतभाषा संस्कृतं अतुलभाषा संस्कृतम् ।
सुकृतिजनहृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ 4 ॥

भुवनभाषा संस्कृतं भवनभाषा संस्कृतम् ।
भरतभुवि परिलसितकाव्यमनोज्ञभाषा संस्कृतम् ॥ 5 ॥

शस्त्रभाषा संस्कृतं शास्त्रभाषा संस्कृतम् ।
शस्त्रशास्त्रभृदार्षभारतराष्ट्रभाषा संस्कृतम् ॥ 6 ॥

धर्मभाषा संस्कृतं कर्मभाषा संस्कृतम् ।
धर्मकर्मप्रचोदकं खलु विश्वभाषा संस्कृतम् ॥ 7 ॥