Hindi

HomeHindiPage 42
पुरा हयग्रीवमहासुरेण षष्ठांतरांतोद्यदकांडकल्पे ।निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।करांजलौ संज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽंबुपात्रेण मुनिः स्वगेहम्...
प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथाऽपित्वामाराध्यन्नजित रचयन्नंजलिं संजगाद ।मत्तः किं ते समभिलषितं विप्रसूनो वद त्वंवित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥1॥ तामीक्षणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ-प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन्...
शक्रेण संयति हतोऽपि बलिर्महात्माशुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।विक्रांतिमान् भयनिलीनसुरां त्रिलोकींचक्रे वशे स तव चक्रमुखादभीतः ॥1॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णातं काश्यपं निजपतिं शरणं प्रपन्ना ।त्वत्पूजनं तदुदितं हि पयोव्रताख्यंसा द्वादशाहमचरत्त्वयि भक्तिपूर्णा...
उद्गच्छतस्तव करादमृतं हरत्सुदैत्येषु तानशरणाननुनीय देवान् ।सद्यस्तिरोदधिथ देव भवत्प्रभावा-दुद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥1॥ श्यामां रुचाऽपि वयसाऽपि तनुं तदानींप्राप्तोऽसि तुंगकुचमंडलभंगुरां त्वम् ।पीयूषकुंभकलहं परिमुच्य सर्वेतृष्णाकुलाः प्रतिययुस्त्वदुरोजकुंभे ॥2॥ का त्वं...
गरलं तरलानलं पुरस्ता-ज्जलधेरुद्विजगाल कालकूटम् ।अमरस्तुतिवादमोदनिघ्नोगिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥ विमथत्सु सुरासुरेषु जातासुरभिस्तामृषिषु न्यधास्त्रिधामन् ।हयरत्नमभूदथेभरत्नंद्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥ जगदीश भवत्परा तदानींकमनीया कमला बभूव देवी ।अमलामवलोक्य यां विलोलःसकलोऽपि स्पृहयांबभूव...
दर्वासास्सुरवनिताप्तदिव्यमाल्यंशक्राय स्वयमुपदाय तत्र भूयः ।नागेंद्रप्रतिमृदिते शशाप शक्रंका क्षांतिस्त्वदितरदेवतांशजानाम् ॥1॥ शापेन प्रथितजरेऽथ निर्जरेंद्रेदेवेष्वप्यसुरजितेषु निष्प्रभेषु ।शर्वाद्याः कमलजमेत्य सर्वदेवानिर्वाणप्रभव समं भवंतमापुः ॥2॥ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानींप्रादुष्षन् वरद पुरः...
इंद्रद्युम्नः पांड्यखंडाधिराज-स्त्वद्भक्तात्मा चंदनाद्रौ कदाचित् ।त्वत् सेवायां मग्नधीरालुलोकेनैवागस्त्यं प्राप्तमातिथ्यकामम् ॥1॥ कुंभोद्भूतिः संभृतक्रोधभारःस्तब्धात्मा त्वं हस्तिभूयं भजेति ।शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभेहस्तींद्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥2॥ दग्धांभोधेर्मध्यभाजि त्रिकूटेक्रीडंछैले यूथपोऽयं वशाभिः ।सर्वान्...
स्तंभे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय-न्नाघूर्णज्जगदंडकुंडकुहरो घोरस्तवाभूद्रवः ।श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतंकंपः कश्चन संपपात चलितोऽप्यंभोजभूर्विष्टरात् ॥1॥ दैत्ये दिक्षु विसृष्टचक्षुषि महासंरंभिणि स्तंभतःसंभूतं न मृगात्मकं न मनुजाकारं...
हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवताहते शोकक्रोधग्लपितधृतिरेतस्य सहजः ।हिरण्यप्रारंभः कशिपुरमरारातिसदसिप्रतिज्ञमातेने तव किल वधार्थं मधुरिपो ॥1॥ विधातारं घोरं स खलु तपसित्वा नचिरतःपुरः साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् ।वरं लब्ध्वा दृप्तो जगदिह...
प्राचेतसस्तु भगवन्नपरो हि दक्ष-स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।आविर्बभूविथ तदा लसदष्टबाहु-स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥1॥ तस्यात्मजास्त्वयुतमीश पुनस्सहस्रंश्रीनारदस्य वचसा तव मार्गमापुः ।नैकत्रवासमृषये स मुमोच शापंभक्तोत्तमस्त्वृषिरनुग्रहमेव मेने...