विष्णु स्तोत्राणि

तरलमधुकृत् वृंदे वृंदावनेऽथ मनोहरेपशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।हलधरसखो देव श्रीमन् विचेरिथ धारयन्गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥ विहितजगतीरक्षं लक्ष्मीकरांबुजलालितंददति चरणद्वंद्वं वृंदावने त्वयि पावने ।किमिव न बभौ संपत्संपूरितं तरुवल्लरी-सलिलधरणीगोत्रक्षेत्रादिकं कमलापते...
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।अहेतुमुत्पातगणं विशंक्य प्रयातुमन्यत्र मनो वितेनुः ॥1॥ तत्रोपनंदाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।इतः प्रतीच्यां विपिनं मनोज्ञं वृंदावनं नाम विराजतीति ॥2॥ बृहद्वनं तत् खलु...
मुदा सुरौघैस्त्वमुदारसम्मदै-रुदीर्य दामोदर इत्यभिष्टुतः ।मृदुदरः स्वैरमुलूखले लग-न्नदूरतो द्वौ ककुभावुदैक्षथाः ॥1॥ कुबेरसूनुर्नलकूबराभिधःपरो मणिग्रीव इति प्रथां गतः ।महेशसेवाधिगतश्रियोन्मदौचिरं किल त्वद्विमुखावखेलताम् ॥2॥ सुरापगायां किल तौ मदोत्कटौसुरापगायद्बहुयौवतावृतौ ।विवाससौ केलिपरौ...
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।स्तन्यलोलुपतया निवारयन्नंकमेत्य पपिवान् पयोधरौ ॥1॥ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननांबुजे ।दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥2॥ सामिपीतरसभंगसंगतक्रोधभारपरिभूतचेतसा।मंथदंडमुपगृह्य पाटितं हंत देव...
अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनंधये ।परिजृंभणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥1॥ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।फलसंचयवंचनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥2॥ अयि ते...
अयि सबल मुरारे पाणिजानुप्रचारैःकिमपि भवनभागान् भूषयंतौ भवंतौ ।चलितचरणकंजौ मंजुमंजीरशिंजा-श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥ मृदु मृदु विहसंतावुन्मिषद्दंतवंतौवदनपतितकेशौ दृश्यपादाब्जदेशौ ।भुजगलितकरांतव्यालगत्कंकणांकौमतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥ अनुसरति जनौघे कौतुकव्याकुलाक्षेकिमपि कृतनिनादं व्याहसंतौ द्रवंतौ...
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।हृद्गतहोरातत्त्वो गर्गमुनिस्त्वत् गृहं विभो गतवान् ॥1॥ नंदोऽथ नंदितात्मा वृंदिष्टं मानयन्नमुं यमिनाम् ।मंदस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥2॥ यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन्...
त्वामेकदा गुरुमरुत्पुरनाथ वोढुंगाढाधिरूढगरिमाणमपारयंती ।माता निधाय शयने किमिदं बतेतिध्यायंत्यचेष्टत गृहेषु निविष्टशंका ॥1॥ तावद्विदूरमुपकर्णितघोरघोष-व्याजृंभिपांसुपटलीपरिपूरिताशः ।वात्यावपुस्स किल दैत्यवरस्तृणाव-र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥2॥ उद्दामपांसुतिमिराहतदृष्टिपातेद्रष्टुं किमप्यकुशले पशुपाललोके ।हा बालकस्य किमिति...
कदापि जन्मर्क्षदिने तव प्रभो निमंत्रितज्ञातिवधूमहीसुरा ।महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥1॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसंक्रंदनसंकुलारवैः ।विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥2॥ ततस्तदाकर्णनसंभ्रमश्रमप्रकंपिवक्षोजभरा व्रजांगनाः ।भवंतमंतर्ददृशुस्समंततो विनिष्पतद्दारुणदारुमध्यगम् ॥3॥ शिशोरहो...
व्रजेश्वरैः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।निष्पिष्टनिश्शेषतरुं निरीक्ष्य कंचित्पदार्थं शरणं गतस्वाम् ॥1॥ निशम्य गोपीवचनादुदंतं सर्वेऽपि गोपा भयविस्मयांधाः ।त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥2॥ त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः...