श्री कृष्ण स्तोत्राणि

यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत-द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनींद्राःनो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते...
त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वंप्राहुर्नैगुण्यनिष्ठं तदनुभजनतो मंक्षु सिद्धो भवेयम् ॥1॥ त्वय्येव...
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार-स्तारो मंत्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयोनागानामस्यनंतस्सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥1॥ ब्रह्मण्यानां बलिस्त्वं क्रतुषु...
आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वंजीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने ।तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेनछित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥1॥ सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि...
शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं तेशुद्धं देहेंद्रियादिव्यपगतमखिलव्याप्तमावेदयंते ।नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्संगतोऽध्यासितं तेवह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशांततादि ॥1॥ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार-ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।कर्मालीवासनातत्कृततनुभुवनभ्रांतिकांतारपूरेदाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥2॥ एवं त्वत्प्राप्तितोऽन्यो...
बंधुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मासर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् ।नानात्वाद्भ्रांतिजन्यात् सति खलु गुणदोषावबोधे विधिर्वाव्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥1॥ क्षुत्तृष्णालोपमात्रे सततकृतधियो जंतवः...
वेदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वातानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ।मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति-र्दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥1॥ यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिंहृद्यां सत्त्वैकरूपां...
श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे-र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव ।यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गेधावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥1॥ भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मायद्यत् कुर्वे समस्तं तदिह...
वृकभृगुमुनिमोहिन्यंबरीषादिवृत्ते-ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् ।स्थितमिह परमात्मन् निष्कलार्वागभिन्नंकिमपि यदवभातं तद्धि रूपं तवैव ॥1॥ मूर्तित्रयेश्वरसदाशिवपंचकं यत्प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।तत्रेश्वरस्तु स विकुंठपदस्त्वमेवत्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥2॥ तत्रापि...
रमाजाने जाने यदिह तव भक्तेषु विभवोन सद्यस्संपद्यस्तदिह मदकृत्त्वादशमिनाम् ।प्रशांतिं कृत्वैव प्रदिशसि ततः काममखिलंप्रशांतेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥1॥ सद्यः प्रसादरुषितान् विधिशंकरादीन्केचिद्विभो निजगुणानुगुणं भजंतः ।भ्रष्टा...