विष्णु स्तोत्राणि

अथ सप्तमस्तोत्रम् विश्वस्थितिप्रलयसर्गमहाविभूति वृत्तिप्रकाशनियमावृति बन्धमोक्षाः ।यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ 1॥ ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्व गीर्वाणसन्ततिरियं यदपाङ्गलेशम् ।आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ 2॥...
अथ षष्ठस्तोत्रम् मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य ।कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥ 1॥ सूकररूपक दानवशत्रो भूमिविधारक यज्ञावराङ्ग ।देव नृसिंह हिरण्यकशत्रो सर्व भयान्तक दैवतबन्धो ॥ 2॥ वामन...
अथ पञ्चमस्तोत्रम् वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त ।धराधरधारण वेधुरधर्तः सौधृतिदीधितिवेधृविधातः ॥ 1॥ अधिकबन्धं रन्धय बोधा च्छिन्धिपिधानं बन्धुरमद्धा ।केशव केशव शासक वन्दे पाशधरार्चित शूरपरेश (शूरवरेश) ॥ 2॥ नारायणामलतारण...
अथ चतुर्थस्तोत्रम् निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 1॥ यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः ।स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2॥...
अथ तृतीयस्तोत्रम् कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् ।हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥ 1॥ न ततोऽस्त्यपरं जगदीड्यतमं (जगतीड्यतमं) परमात्परतः पुरुषोत्तमतः ।तदलं...
अथ द्वितीयस्तोत्रम् स्वजनोदधिसंवृद्धि पूर्णचन्द्रो गुणार्णवः । (सुजनोदधिसंवृद्धि)अमन्दानन्द सान्द्रो नः सदाव्यादिन्दिरापतिः ॥ 1॥ (प्रीयातामिन्दिरापतिः)रमाचकोरीविधवे दुष्टदर्पोदवह्नये । (दुष्टसर्पोदवह्नये)सत्पान्थजनगेहाय नमो नारायणाय ते ॥ 2॥ चिदचिद्भेदं अखिलं विधायाधाय भुञ्जते...
॥ द्वादश स्तोत्राणि॥ अथ प्रथमस्तोत्रम् वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ 1॥ नमामि निखिलाधीश किरीटाघृष्टपीठवत् ।हृत्तमः शमनेऽर्काभं श्रीपतेः पादपङ्कजम् ॥ 2॥ जाम्बूनदाम्बराधारं...
स्फुरत्सहस्रारशिखातितीव्रंसुदर्शनं भास्करकोटितुल्यम् ।सुरद्विषां प्राणविनाशि विष्णोःचक्रं सदाऽहं शरणं प्रपद्ये ॥ 1 ॥ विष्णोर्मुखोत्थानिलपूरितस्ययस्य ध्वनिर्दानवदर्पहन्ता ।तं पाञ्चजन्यं शशिकोटिशुभ्रंशङ्खं सदाऽहं शरणं प्रपद्ये ॥ 2 ॥ हिरण्मयीं मेरुसमानसारांकौमोदकीं दैत्यकुलैकहन्त्रीम्...
ध्यानंअच्युतानन्त गोविन्द विष्णो नारायणाऽमृतरोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे ।आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियंस्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥ शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः ।सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् ।कालाम्भोदोज्ज्वलाङ्गं...
विशुद्धं परं सच्चिदानन्दरूपंगुणाधारमाधारहीनं वरेण्यम् ।महान्तं विभान्तं गुहान्तं गुणान्तंसुखान्तं स्वयं धाम रामं प्रपद्ये ॥ 1 ॥ शिवं नित्यमेकं विभुं तारकाख्यंसुखाकारमाकारशून्यं सुमान्यम् ।महेशं कलेशं सुरेशं परेशंनरेशं निरीशं...