श्री कृष्ण स्तोत्राणि

प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षांकाङ्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् ।धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना-नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥1॥ श्रुतदेव इति श्रुतं द्विजेन्द्रंबहुलाश्वं नृपतिं च भक्तिपूर्णम् ।युगपत्त्वमनुग्रहीतुकामोमिथिलां प्रापिथं...
कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥1॥ समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं...
साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानंविन्दन् सौभं स मायी त्वयि वसति कुरुंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।प्रद्युम्नस्तं निरुन्धन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यंतस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तः ॥1॥ तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यंसौभेशं तं न्यरुन्धाः स च...
ततो मगधभूभृता चिरनिरोधसङ्क्लेशितंशताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।अनाथशरणाय ते कमपि पूरुषं प्राहिणो-दयाचत स मागधक्षपणमेव किं भूयसा ॥1॥ यियासुरभिमागधं तदनु नारदोदीरिता-द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवेशशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥2॥ अशेषदयितायुते त्वयि...
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥1॥ बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् ।द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥2॥ तव खलु दयिताजनैः समेता द्रुपदसुता...
रामेऽथ गोकुलगते प्रमदाप्रसक्तेहूतानुपेतयमुनादमने मदान्धे ।स्वैरं समारमति सेवकवादमूढोदूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥1॥ नारायणोऽहमवतीर्ण इहास्मि भूमौधत्से किल त्वमपि मामकलक्षणानि ।उत्सृज्य तानि शरणं व्रज मामिति त्वांदूतो जगाद सकलैर्हसितः...
प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तंहत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् ।तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रींतत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥1॥ बाणस्य सा बलिसुतस्य सहस्रबाहो-र्माहेश्वरस्य...
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामांयातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यांसशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥1॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानांत्वद्वाचा तामहृत कुहनामस्करी...
सत्राजितस्त्वमथ लुब्धवदर्कलब्धंदिव्यं स्यमन्तकमणिं भगवन्नयाचीः ।तत्कारणं बहुविधं मम भाति नूनंतस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसाप्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।अहन्नेनं सिंहो मणिमहसि...
बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः ।द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥1॥ भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥2॥ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा ।निरगमत्...