विष्णु स्तोत्राणि

एवं चतुर्दशजगन्मयतां गतस्यपातालमीश तव पादतलं वदन्ति ।पादोर्ध्वदेशमपि देव रसातलं तेगुल्फद्वयं खलु महातलमद्भुतात्मन् ॥1॥ जङ्घे तलातलमथो सुतलं च जानूकिञ्चोरुभागयुगलं वितलातले द्वे ।क्षोणीतलं जघनमम्बरमङ्ग नाभि-र्वक्षश्च शक्रनिलयस्तव चक्रपाणे...
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षयेमायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।नो मृत्युश्च तदाऽमृतं च समभून्नाह्नो न रात्रेः स्थिति-स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥1॥ कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभोचिल्लीलारतिमेयुषि...
कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥1॥ ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः ।कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥2॥ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः...
पठन्तो नामानि प्रमदभरसिन्धौ निपतिताःस्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः ।चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू-नहं धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥1॥ गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ-प्यनासक्तं चित्तं भवति...
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरंकारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम्।गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभंत्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे॥1॥ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।काञ्चित् काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी-मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥2॥ यत्त्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ-प्याश्चर्यं भुवने न कस्य...
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यांनिर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वंतत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ 1 ॥ एवन्दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्तन्वा वाचा धिया वा...
अस्य श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य वेदव्यासो भगवानृषिः अनुष्टुप्छन्दः भगवान् श्रीमहाविष्णुर्देवता, श्रीरङ्गशायीति बीजं श्रीकान्त इति शक्तिः श्रीप्रद इति कीलकं मम समस्तपापनाशार्थे श्रीरङ्गराजप्रसाद सिद्ध्यर्थे जपे विनियोगः । धौम्य उवाच ।श्रीरङ्गशायी...
ॐ श्रीरङ्गशायिने नमः ।ॐ श्रीकान्ताय नमः ।ॐ श्रीप्रदाय नमः ।ॐ श्रितवत्सलाय नमः ।ॐ अनन्ताय नमः ।ॐ माधवाय नमः ।ॐ जेत्रे नमः ।ॐ जगन्नाथाय नमः ।ॐ...
कलितकनकचेलं खण्डितापत्कुचेलंगलधृतवनमालं गर्वितारातिकालम् ।कलिमलहरशीलं कान्तिधूतेन्द्रनीलंविनमदवनशीलं वेणुगोपालमीडे ॥ 1 ॥ व्रजयुवतिविलोलं वन्दनानन्दलोलंकरधृतगुरुशैलं कञ्जगर्भादिपालम् ।अभिमतफलदानं श्रीजितामर्त्यसालंविनमदवनशीलं वेणुगोपालमीडे ॥ 2 ॥ घनतरकरुणाश्रीकल्पवल्ल्यालवालंकलशजलधिकन्यामोदकश्रीकपोलम् ।प्लुषितविनतलोकानन्तदुष्कर्मतूलंविनमदवनशीलं वेणुगोपालमीडे ॥ 3 ॥ शुभदसुगुणजालं...
यत्सेवनेन पितृमातृसहोदराणांचित्तं न मोहमहिमा मलिनं करोति ।इत्थं समीक्ष्य तव भक्तजनान्मुरारेमूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ 1 ॥ ये ये विलग्नमनसः सुखमाप्तुकामाःते ते भवन्ति जगदुद्भवमोहशून्याः ।दृष्ट्वा विनष्टधनधान्यगृहान्मुरारेमूकोऽस्मि...