विष्णु स्तोत्राणि

गरुडगमन तव चरणकमलमिह मनसि लसतु मम नित्यम्मनसि लसतु मम नित्यम् ।मम तापमपाकुरु देव, मम पापमपाकुरु देव ॥ ध्रु.॥ जलजनयन विधिनमुचिहरणमुख विबुधविनुत-पदपद्ममम तापमपाकुरु देव, मम पापमपाकुरु...
जगज्जालपालं कनत्कंठमालंशरच्चंद्रफालं महादैत्यकालम् ।नभोनीलकायं दुरावारमायंसुपद्मासहायं भजेऽहं भजेऽहम् ॥ 1 ॥ सदांभोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासम् ।गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥ 2 ॥ रमाकंठहारं श्रुतिव्रातसारंजलांतर्विहारं धराभारहारम् ।चिदानंदरूपं मनोज्ञस्वरूपंधृतानेकरूपं...
सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ 1॥ असंगोऽहमसंगोऽहमसंगोऽहं पुनः पुनः ।सच्चिदानंदरूपोऽहमहमेवाहमव्ययः ॥ 2॥ नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः ।भूमानंदस्वरूपोऽहमहमेवाहमव्ययः ॥ 3॥ नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते ।परमानंदरूपोऽहमहमेवाहमव्ययः ॥...
सर्ववेदांतसिद्धांतगोचरं तमगोचरम् ।गोविंदं परमानंदं सद्गुरुं प्रणतोऽस्म्यहम् ॥ 1॥ जंतूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रतातस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिःमुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥ 2॥ (पाठभेदः...
श्री गणेशाय नमः ॥ श्रीसुदर्शन परब्रह्मणे नमः ॥ अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥ कैलासशिखरे रम्ये मुक्तामाणिक्य मंडपे ।रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥ 1॥ बद्धांजलिपुटा भूत्वा पप्रच्छ...
ॐ श्रीचक्राय नमः ।ॐ श्रीकराय नमः ।ॐ श्रीविष्णवे नमः ।ॐ श्रीविभावनाय नमः ।ॐ श्रीमदांत्यहराय नमः ।ॐ श्रीमते नमः ।ॐ श्रीवत्सकृतलक्षणाय नमः ।ॐ श्रीनिधये नमः ॥...
सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।सहस्रबाहु-र्दीप्तांगः अरुणाक्षः प्रतापवान् ॥ 1॥ अनेकादित्यसंकाशः प्रोद्यज्ज्वालाभिरंजितः ।सौदामिनी-सहस्राभः मणिकुंडल-शोभितः ॥ 2॥ पंचभूतमनोरूपो षट्कोणांतर-संस्थितः ।हरांतः करणोद्भूत-रोषभीषण-विग्रहः ॥ 3॥ हरिपाणिलसत्पद्मविहारारमनोहरः ।श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥ 4॥...
ॐ श्री सुदर्शनाय नमः ।ॐ चक्रराजाय नमः ।ॐ तेजोव्यूहाय नमः ।ॐ महाद्युतये नमः ।ॐ सहस्र-बाहवे नमः ।ॐ दीप्तांगाय नमः ।ॐ अरुणाक्षाय नमः ।ॐ प्रतापवते नमः...
सहस्रादित्यसंकाशं सहस्रवदनं परम् ।सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ 1 ॥ हसंतं हारकेयूर मकुटांगदभूषणैः ।शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ 2 ॥ स्राकारसहितं मंत्रं वदनं शत्रुनिग्रहम् ।सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम्...
प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषणजनिभयस्थानतारण जगदवस्थानकारण ।निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शनजय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 1 ॥ शुभजगद्रूपमंडन सुरजनत्रासखंडनशतमखब्रह्मवंदित शतपथब्रह्मनंदित ।प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षितजय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ 2...