विष्णु स्तोत्राणि

उद्गच्छतस्तव करादमृतं हरत्सुदैत्येषु तानशरणाननुनीय देवान् ।सद्यस्तिरोदधिथ देव भवत्प्रभावा-दुद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥1॥ श्यामां रुचाऽपि वयसाऽपि तनुं तदानींप्राप्तोऽसि तुंगकुचमंडलभंगुरां त्वम् ।पीयूषकुंभकलहं परिमुच्य सर्वेतृष्णाकुलाः प्रतिययुस्त्वदुरोजकुंभे ॥2॥ का त्वं...
गरलं तरलानलं पुरस्ता-ज्जलधेरुद्विजगाल कालकूटम् ।अमरस्तुतिवादमोदनिघ्नोगिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥ विमथत्सु सुरासुरेषु जातासुरभिस्तामृषिषु न्यधास्त्रिधामन् ।हयरत्नमभूदथेभरत्नंद्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥ जगदीश भवत्परा तदानींकमनीया कमला बभूव देवी ।अमलामवलोक्य यां विलोलःसकलोऽपि स्पृहयांबभूव...
दर्वासास्सुरवनिताप्तदिव्यमाल्यंशक्राय स्वयमुपदाय तत्र भूयः ।नागेंद्रप्रतिमृदिते शशाप शक्रंका क्षांतिस्त्वदितरदेवतांशजानाम् ॥1॥ शापेन प्रथितजरेऽथ निर्जरेंद्रेदेवेष्वप्यसुरजितेषु निष्प्रभेषु ।शर्वाद्याः कमलजमेत्य सर्वदेवानिर्वाणप्रभव समं भवंतमापुः ॥2॥ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानींप्रादुष्षन् वरद पुरः...
प्राचेतसस्तु भगवन्नपरो हि दक्ष-स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।आविर्बभूविथ तदा लसदष्टबाहु-स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥1॥ तस्यात्मजास्त्वयुतमीश पुनस्सहस्रंश्रीनारदस्य वचसा तव मार्गमापुः ।नैकत्रवासमृषये स मुमोच शापंभक्तोत्तमस्त्वृषिरनुग्रहमेव मेने...
मध्योद्भवे भुव इलावृतनाम्नि वर्षेगौरीप्रधानवनिताजनमात्रभाजि ।शर्वेण मंत्रनुतिभिः समुपास्यमानंसंकर्षणात्मकमधीश्वर संश्रये त्वाम् ॥1॥ भद्राश्वनामक इलावृतपूर्ववर्षेभद्रश्रवोभिः ऋषिभिः परिणूयमानम् ।कल्पांतगूढनिगमोद्धरणप्रवीणंध्यायामि देव हयशीर्षतनुं भवंतम् ॥2॥ ध्यायामि दक्षिणगते हरिवर्षवर्षेप्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् ।उत्तुंगशांतधवलाकृतिमेकशुद्ध-ज्ञानप्रदं नरहरिं...
जातस्य ध्रुवकुल एव तुंगकीर्ते-रंगस्य व्यजनि सुतः स वेननामा ।यद्दोषव्यथितमतिः स राजवर्य-स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥1॥ पापोऽपि क्षितितलपालनाय वेनःपौराद्यैरुपनिहितः कठोरवीर्यः ।सर्वेभ्यो निजबलमेव संप्रशंसन्भूचक्रे तव यजनान्ययं न्यरौत्सीत्...
समनुस्मृततावकांघ्रियुग्मःस मनुः पंकजसंभवांगजन्मा ।निजमंतरमंतरायहीनंचरितं ते कथयन् सुखं निनाय ॥1॥ समये खलु तत्र कर्दमाख्योद्रुहिणच्छायभवस्तदीयवाचा ।धृतसर्गरसो निसर्गरम्यंभगवंस्त्वामयुतं समाः सिषेवे ॥2॥ गरुडोपरि कालमेघक्रमंविलसत्केलिसरोजपाणिपद्मम् ।हसितोल्लसिताननं विभो त्वंवपुराविष्कुरुषे स्म कर्दमाय...
हिरण्याक्षं तावद्वरद भवदन्वेषणपरंचरंतं सांवर्ते पयसि निजजंघापरिमिते ।भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिःशनैरूचे नंदन् दनुजमपि निंदंस्तव बलम् ॥1॥ स मायावी विष्णुर्हरति भवदीयां वसुमतींप्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।नदन् क्वासौ...
स्वायंभुवो मनुरथो जनसर्गशीलोदृष्ट्वा महीमसमये सलिले निमग्नाम् ।स्रष्टारमाप शरणं भवदंघ्रिसेवा-तुष्टाशयं मुनिजनैः सह सत्यलोके ॥1॥ कष्टं प्रजाः सृजति मय्यवनिर्निमग्नास्थानं सरोजभव कल्पय तत् प्रजानाम् ।इत्येवमेष कथितो मनुना स्वयंभूः...
क्रमेण सर्गे परिवर्धमानेकदापि दिव्याः सनकादयस्ते ।भवद्विलोकाय विकुंठलोकंप्रपेदिरे मारुतमंदिरेश ॥1॥ मनोज्ञनैश्रेयसकाननाद्यै-रनेकवापीमणिमंदिरैश्च ।अनोपमं तं भवतो निकेतंमुनीश्वराः प्रापुरतीतकक्ष्याः ॥2॥ भवद्दिद्दृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान् विजयोऽप्यरुंधाम् ।तेषां च चित्ते पदमाप कोपःसर्वं...