Nepali

HomeNepaliPage 43
प्राचेतसस्तु भगवन्नपरो हि दक्ष-स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।आविर्बभूविथ तदा लसदष्टबाहु-स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥1॥ तस्यात्मजास्त्वयुतमीश पुनस्सहस्रंश्रीनारदस्य वचसा तव मार्गमापुः ।नैकत्रवासमृषये स मुमोच शापंभक्तोत्तमस्त्वृषिरनुग्रहमेव मेने...
अजामिलो नाम महीसुरः पुराचरन् विभो धर्मपथान् गृहाश्रमी ।गुरोर्गिरा काननमेत्य दृष्टवान्सुधृष्टशीलां कुलटां मदाकुलाम् ॥1॥ स्वतः प्रशांतोऽपि तदाहृताशयःस्वधर्ममुत्सृज्य तया समारमन् ।अधर्मकारी दशमी भवन् पुन-र्दधौ भवन्नामयुते सुते रतिम्...
मध्योद्भवे भुव इलावृतनाम्नि वर्षेगौरीप्रधानवनिताजनमात्रभाजि ।शर्वेण मंत्रनुतिभिः समुपास्यमानंसंकर्षणात्मकमधीश्वर संश्रये त्वाम् ॥1॥ भद्राश्वनामक इलावृतपूर्ववर्षेभद्रश्रवोभिः ऋषिभिः परिणूयमानम् ।कल्पांतगूढनिगमोद्धरणप्रवीणंध्यायामि देव हयशीर्षतनुं भवंतम् ॥2॥ ध्यायामि दक्षिणगते हरिवर्षवर्षेप्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् ।उत्तुंगशांतधवलाकृतिमेकशुद्ध-ज्ञानप्रदं नरहरिं...
प्रियव्रतस्य प्रियपुत्रभूता-दाग्नीध्रराजादुदितो हि नाभिः ।त्वां दृष्टवानिष्टदमिष्टिमध्येतवैव तुष्ट्यै कृतयज्ञकर्मा ॥1॥ अभिष्टुतस्तत्र मुनीश्वरैस्त्वंराज्ञः स्वतुल्यं सुतमर्थ्यमानः ।स्वयं जनिष्येऽहमिति ब्रुवाण-स्तिरोदधा बर्हिषि विश्वमूर्ते ॥2॥ नाभिप्रियायामथ मेरुदेव्यांत्वमंशतोऽभूः ॠषभाभिधानः ।अलोकसामान्यगुणप्रभाव-प्रभाविताशेषजनप्रमोदः ॥3॥ त्वयि...
पृथोस्तु नप्ता पृथुधर्मकर्मठःप्राचीनबर्हिर्युवतौ शतद्रुतौ ।प्रचेतसो नाम सुचेतसः सुता-नजीजनत्त्वत्करुणांकुरानिव ॥1॥ पितुः सिसृक्षानिरतस्य शासनाद्-भवत्तपस्याभिरता दशापि तेपयोनिधिं पश्चिममेत्य तत्तटेसरोवरं संददृशुर्मनोहरम् ॥2॥ तदा भवत्तीर्थमिदं समागतोभवो भवत्सेवकदर्शनादृतः ।प्रकाशमासाद्य पुरः प्रचेतसा-मुपादिशत्...
जातस्य ध्रुवकुल एव तुंगकीर्ते-रंगस्य व्यजनि सुतः स वेननामा ।यद्दोषव्यथितमतिः स राजवर्य-स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥1॥ पापोऽपि क्षितितलपालनाय वेनःपौराद्यैरुपनिहितः कठोरवीर्यः ।सर्वेभ्यो निजबलमेव संप्रशंसन्भूचक्रे तव यजनान्ययं न्यरौत्सीत्...
उत्तानपादनृपतेर्मनुनंदनस्यजाया बभूव सुरुचिर्नितरामभीष्टा ।अन्या सुनीतिरिति भर्तुरनादृता सात्वामेव नित्यमगतिः शरणं गताऽभूत् ॥1॥ अंके पितुः सुरुचिपुत्रकमुत्तमं तंदृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।आचिक्षिपे किल शिशुः सुतरां सुरुच्यादुस्संत्यजा खलु भवद्विमुखैरसूया...
दक्षो विरिंचतनयोऽथ मनोस्तनूजांलब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।धर्मे त्रयोदश ददौ पितृषु स्वधां चस्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥1॥ मूर्तिर्हि धर्मगृहिणी सुषुवे भवंतंनारायणं नरसखं महितानुभावम् ।यज्जन्मनि...
मतिरिह गुणसक्ता बंधकृत्तेष्वसक्तात्वमृतकृदुपरुंधे भक्तियोगस्तु सक्तिम् ।महदनुगमलभ्या भक्तिरेवात्र साध्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥1॥ प्रकृतिमहदहंकाराश्च मात्राश्च भूता-न्यपि हृदपि दशाक्षी पूरुषः पंचविंशः ।इति विदितविभागो मुच्यतेऽसौ प्रकृत्याकपिलतनुरिति त्वं देवहूत्यै...
समनुस्मृततावकांघ्रियुग्मःस मनुः पंकजसंभवांगजन्मा ।निजमंतरमंतरायहीनंचरितं ते कथयन् सुखं निनाय ॥1॥ समये खलु तत्र कर्दमाख्योद्रुहिणच्छायभवस्तदीयवाचा ।धृतसर्गरसो निसर्गरम्यंभगवंस्त्वामयुतं समाः सिषेवे ॥2॥ गरुडोपरि कालमेघक्रमंविलसत्केलिसरोजपाणिपद्मम् ।हसितोल्लसिताननं विभो त्वंवपुराविष्कुरुषे स्म कर्दमाय...