प्रद्युम्नो रौक्मिणेयः स खलु तव कला शंबरेणाहृतस्तंहत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् ।तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रींतत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥1॥ बाणस्य सा बलिसुतस्य सहस्रबाहो-र्माहेश्वरस्य...
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामांयातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यांसशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥1॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानांत्वद्वाचा तामहृत कुहनामस्करी...
सत्राजितस्त्वमथ लुब्धवदर्कलब्धंदिव्यं स्यमंतकमणिं भगवन्नयाचीः ।तत्कारणं बहुविधं मम भाति नूनंतस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसाप्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।अहन्नेनं सिंहो मणिमहसि...
बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः ।द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥1॥ भुवनकांतमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥2॥ तदनु वंदितुमिंदुमुखी शिवां विहितमंगलभूषणभासुरा ।निरगमत्...
त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरंचितरोचिषा ॥1॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥2॥ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव...
सैरंध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सुललितमुद्धवेन सार्धम् ।आवासं त्वदुपगमोत्सवं सदैवध्यायंत्याः प्रतिदिनवाससज्जिकायाः ॥1॥ उपगते त्वयि पूर्णमनोरथां प्रमदसंभ्रमकंप्रपयोधराम् ।विविधमाननमादधतीं मुदा रहसि तां रमयांचकृषे सुखम् ॥2॥ पृष्टा वरं पुनरसाववृणोद्वराकीभूयस्त्वया सुरतमेव...
गत्वा सांदीपनिमथ चतुष्षष्टिमात्रैरहोभिःसर्वज्ञस्त्वं सह मुसलिना सर्वविद्या गृहीत्वा ।पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थंदत्वा तस्मै निजपुरमगा नादयन् पांचजन्यम् ॥1॥ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाःकारुण्येन त्वमपि विवशः प्राहिणोरुद्धवं तम् ।किंचामुष्मै...
प्रातः संत्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्येसंघे राज्ञां च मंचानभिययुषि गते नंदगोपेऽपि हर्म्यम् ।कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषोरंगद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥1॥ पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे-रंबष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः...
संप्राप्तो मथुरां दिनार्धविगमे तत्रांतरस्मिन् वस-न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥1॥ त्वत्पादद्युतिवत् सरागसुभगाः त्वन्मूर्तिवद्योषितःसंप्राप्ता विलसत्पयोधररुचो लोला भवत् दृष्टिवत् ।हारिण्यस्त्वदुरःस्थलीवदयि ते मंदस्मितप्रौढिव-न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः...
निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥1॥ करुणानिधिरेष नंदसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥2॥ चरमप्रहरे प्रतिष्ठमानः...