श्री कृष्ण स्तोत्राणि

सांद्रानंदतनो हरे ननु पुरा दैवासुरे संगरेत्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिताभूमिः प्राप विरिंचमाश्रितपदं देवैः पुरैवागतैः ॥1॥ हा हा...
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधोजातः शिष्यनिबंधतंद्रितमनाः स्वस्थश्चरन् कांतया ।दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा-नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चांते वधम् ॥1॥ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतंब्रह्मद्वेषि...
नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुंदुभेः कायमुच्चैःक्षिप्त्वांगुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् ।हत्वा सुग्रीवघातोद्यतमतुलबलं बालिनं व्याजवृत्त्यावर्षावेलामनैषीर्विरहतरलितस्त्वं मतंगाश्रमांते ॥1॥ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ...
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृंगेपुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।तद्भुक्त्या तत्पुरंध्रीष्वपि तिसृषु समं जातगर्भासु जातोरामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥1॥ कोदंडी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातोयातोऽभूस्तातवाचा मुनिकथितमनुद्वंद्वशांताध्वखेदः ।नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां...
वैवस्वताख्यमनुपुत्रनभागजात-नाभागनामकनरेंद्रसुतोऽंबरीषः ।सप्तार्णवावृतमहीदयितोऽपि रेमेत्वत्संगिषु त्वयि च मग्नमनास्सदैव ॥1॥ त्वत्प्रीतये सकलमेव वितन्वतोऽस्यभक्त्यैव देव नचिरादभृथाः प्रसादम् ।येनास्य याचनमृतेऽप्यभिरक्षणार्थंचक्रं भवान् प्रविततार सहस्रधारम् ॥2॥ स द्वादशीव्रतमथो भवदर्चनार्थंवर्षं दधौ मधुवने यमुनोपकंठे...
पुरा हयग्रीवमहासुरेण षष्ठांतरांतोद्यदकांडकल्पे ।निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।करांजलौ संज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽंबुपात्रेण मुनिः स्वगेहम्...
प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथाऽपित्वामाराध्यन्नजित रचयन्नंजलिं संजगाद ।मत्तः किं ते समभिलषितं विप्रसूनो वद त्वंवित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥1॥ तामीक्षणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ-प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन्...
शक्रेण संयति हतोऽपि बलिर्महात्माशुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।विक्रांतिमान् भयनिलीनसुरां त्रिलोकींचक्रे वशे स तव चक्रमुखादभीतः ॥1॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णातं काश्यपं निजपतिं शरणं प्रपन्ना ।त्वत्पूजनं तदुदितं हि पयोव्रताख्यंसा द्वादशाहमचरत्त्वयि भक्तिपूर्णा...
उद्गच्छतस्तव करादमृतं हरत्सुदैत्येषु तानशरणाननुनीय देवान् ।सद्यस्तिरोदधिथ देव भवत्प्रभावा-दुद्यत्स्वयूथ्यकलहा दितिजा बभूवुः ॥1॥ श्यामां रुचाऽपि वयसाऽपि तनुं तदानींप्राप्तोऽसि तुंगकुचमंडलभंगुरां त्वम् ।पीयूषकुंभकलहं परिमुच्य सर्वेतृष्णाकुलाः प्रतिययुस्त्वदुरोजकुंभे ॥2॥ का त्वं...
गरलं तरलानलं पुरस्ता-ज्जलधेरुद्विजगाल कालकूटम् ।अमरस्तुतिवादमोदनिघ्नोगिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥1॥ विमथत्सु सुरासुरेषु जातासुरभिस्तामृषिषु न्यधास्त्रिधामन् ।हयरत्नमभूदथेभरत्नंद्युतरुश्चाप्सरसः सुरेषु तानि ॥2॥ जगदीश भवत्परा तदानींकमनीया कमला बभूव देवी ।अमलामवलोक्य यां विलोलःसकलोऽपि स्पृहयांबभूव...