श्री कृष्ण स्तोत्राणि

सैरंध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सुललितमुद्धवेन सार्धम् ।आवासं त्वदुपगमोत्सवं सदैवध्यायंत्याः प्रतिदिनवाससज्जिकायाः ॥1॥ उपगते त्वयि पूर्णमनोरथां प्रमदसंभ्रमकंप्रपयोधराम् ।विविधमाननमादधतीं मुदा रहसि तां रमयांचकृषे सुखम् ॥2॥ पृष्टा वरं पुनरसाववृणोद्वराकीभूयस्त्वया सुरतमेव...
गत्वा सांदीपनिमथ चतुष्षष्टिमात्रैरहोभिःसर्वज्ञस्त्वं सह मुसलिना सर्वविद्या गृहीत्वा ।पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थंदत्वा तस्मै निजपुरमगा नादयन् पांचजन्यम् ॥1॥ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाःकारुण्येन त्वमपि विवशः प्राहिणोरुद्धवं तम् ।किंचामुष्मै...
प्रातः संत्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्येसंघे राज्ञां च मंचानभिययुषि गते नंदगोपेऽपि हर्म्यम् ।कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषोरंगद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥1॥ पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे-रंबष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः...
संप्राप्तो मथुरां दिनार्धविगमे तत्रांतरस्मिन् वस-न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥1॥ त्वत्पादद्युतिवत् सरागसुभगाः त्वन्मूर्तिवद्योषितःसंप्राप्ता विलसत्पयोधररुचो लोला भवत् दृष्टिवत् ।हारिण्यस्त्वदुरःस्थलीवदयि ते मंदस्मितप्रौढिव-न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः...
निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥1॥ करुणानिधिरेष नंदसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥2॥ चरमप्रहरे प्रतिष्ठमानः...
कंसोऽथ नारदगिरा व्रजवासिनं त्वा-माकर्ण्य दीर्णहृदयः स हि गांदिनेयम् ।आहूय कार्मुकमखच्छलतो भवंत-मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥ अक्रूर एष भवदंघ्रिपरश्चिरायत्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-मानंदभारमतिभूरितरं बभार ॥2॥ सोऽयं रथेन सुकृती भवतो निवासंगच्छन्...
यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबंधुः ।त्वां सिंधुजावाप्य इतीव मत्वा संप्राप्तवान् सिंधुजवाजिरूपः ॥1॥ गंधर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरापतत्त्वाम् ॥2॥ तार्क्ष्यार्पितांघ्रेस्तव तार्क्ष्य...
इति त्वयि रसाकुलं रमितवल्लभे वल्लवाःकदापि पुरमंबिकामितुरंबिकाकानने ।समेत्य भवता समं निशि निषेव्य दिव्योत्सवंसुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥1॥ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला-दमुंचति भवत्पदे न्यपति पाहि पाहीति तैः ।तदा खलु पदा...
केशपाशधृतपिंछिकाविततिसंचलन्मकरकुंडलंहारजालवनमालिकाललितमंगरागघनसौरभम् ।पीतचेलधृतकांचिकांचितमुदंचदंशुमणिनूपुरंरासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥ तावदेव कृतमंडने कलितकंचुलीककुचमंडलेगंडलोलमणिकुंडले युवतिमंडलेऽथ परिमंडले ।अंतरा सकलसुंदरीयुगलमिंदिरारमण संचरन्मंजुलां तदनु रासकेलिमयि कंजनाभ समुपादधाः ॥2॥ वासुदेव तव भासमानमिह रासकेलिरससौरभंदूरतोऽपि खलु...
तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पंकजेक्षण ।अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥1॥ तदनु काचन त्वत्करांबुजं सपदि गृह्णती निर्विशंकितम् ।घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥2॥ तव विभोऽपरा...