श्री कृष्ण स्तोत्राणि

कुचेलनामा भवतः सतीर्थ्यतां गतः स सांदीपनिमंदिरे द्विजः ।त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥1॥ समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं...
साल्वो भैष्मीविवाहे यदुबलविजितश्चंद्रचूडाद्विमानंविंदन् सौभं स मायी त्वयि वसति कुरुंस्त्वत्पुरीमभ्यभांक्षीत् ।प्रद्युम्नस्तं निरुंधन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यंतस्यामात्यं द्युमंतं व्यजनि च समरः सप्तविंशत्यहांतः ॥1॥ तावत्त्वं रामशाली त्वरितमुपगतः खंडितप्रायसैन्यंसौभेशं तं न्यरुंधाः स च...
ततो मगधभूभृता चिरनिरोधसंक्लेशितंशताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।अनाथशरणाय ते कमपि पूरुषं प्राहिणो-दयाचत स मागधक्षपणमेव किं भूयसा ॥1॥ यियासुरभिमागधं तदनु नारदोदीरिता-द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवेशशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥2॥ अशेषदयितायुते त्वयि...
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समंतपंचकाख्यम् ॥1॥ बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् ।द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपांडवादिमित्रैः ॥2॥ तव खलु दयिताजनैः समेता द्रुपदसुता...
रामेऽथ गोकुलगते प्रमदाप्रसक्तेहूतानुपेतयमुनादमने मदांधे ।स्वैरं समारमति सेवकवादमूढोदूतं न्ययुंक्त तव पौंड्रकवासुदेवः ॥1॥ नारायणोऽहमवतीर्ण इहास्मि भूमौधत्से किल त्वमपि मामकलक्षणानि ।उत्सृज्य तानि शरणं व्रज मामिति त्वांदूतो जगाद सकलैर्हसितः...
प्रद्युम्नो रौक्मिणेयः स खलु तव कला शंबरेणाहृतस्तंहत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् ।तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रींतत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥1॥ बाणस्य सा बलिसुतस्य सहस्रबाहो-र्माहेश्वरस्य...
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामांयातो भूयः सह खलु तया याज्ञसेनीविवाहम् ।पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यांसशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥1॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानांत्वद्वाचा तामहृत कुहनामस्करी...
सत्राजितस्त्वमथ लुब्धवदर्कलब्धंदिव्यं स्यमंतकमणिं भगवन्नयाचीः ।तत्कारणं बहुविधं मम भाति नूनंतस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥1॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसाप्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।अहन्नेनं सिंहो मणिमहसि...
बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः ।द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥1॥ भुवनकांतमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥2॥ तदनु वंदितुमिंदुमुखी शिवां विहितमंगलभूषणभासुरा ।निरगमत्...
त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरंचितरोचिषा ॥1॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥2॥ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव...