ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्व-म्महादेवीति ॥ 1 ॥ सा-ऽब्रवीदह-म्ब्रह्मस्वरूपिणी ।मत्तः प्रकृतिपुरुषात्मक-ञ्जगत् ।शून्य-ञ्चाशून्य-ञ्च ॥ 2 ॥ अहमानन्दानानन्दौ ।अहं-विँज्ञानाविज्ञाने ।अह-म्ब्रह्माब्रह्मणि वेदितव्ये ।अह-म्पञ्चभूतान्यपञ्चभूतानि ।अहमखिल-ञ्जगत् ॥ 3...
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैःप्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिःतदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ 1॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैःविशिष्यानाख्येयो भवति रसनामात्र विषयः ।तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयःकथङ्कारं...
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि–द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमेचिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ 1 ॥ एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितांबालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितांतां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां...
ॐ वाचे नमः ।ॐ वाण्यै नमः ।ॐ वरदायै नमः ।ॐ वन्द्यायै नमः ।ॐ वरारोहायै नमः ।ॐ वरप्रदायै नमः ।ॐ वृत्त्यै नमः ।ॐ वागीश्वर्यै नमः ।ॐ...
ध्यानम् ।श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना ।सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्कितावाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥ श्री नारद उवाच –भगवन्परमेशान सर्वलोकैकनायक ।कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ 2...
(ब्रह्मवैवर्त महापुराणान्तर्गतं) भृगुरुवाच ।ब्रह्मन्ब्रह्मविदांश्रेष्ठ ब्रह्मज्ञानविशारद ।सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ 60 सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।अयातयाममन्त्राणां समूहो यत्र संयुतः ॥ 61 ॥ ब्रह्मोवाच ।शृणु वत्स...
अश्वतर उवाच ।जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ 1 ॥ सदसद्देवि यत्किञ्चिन्मोक्षवच्चार्थवत्पदम् ।तत्सर्वं त्वय्यसंयोगं योगवद्देवि संस्थितम् ॥ 2 ॥ त्वमक्षरं परं देवि...
सुवक्षोजकुम्भां सुधापूर्णकुम्भांप्रसादावलम्बां प्रपुण्यावलम्बाम् ।सदास्येन्दुबिम्बां सदानोष्ठबिम्बांभजे शारदाम्बामजस्रं मदम्बाम् ॥ 1 ॥ कटाक्षे दयार्द्रां करे ज्ञानमुद्रांकलाभिर्विनिद्रां कलापैः सुभद्राम् ।पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रांभजे शारदाम्बामजस्रं मदम्बाम् ॥ 2 ॥ ललामाङ्कफालां...
नमस्ते शरण्ये शिवे सानुकम्पेनमस्ते जगद्व्यापिके विश्वरूपे ।नमस्ते जगद्वन्द्यपादारविन्देनमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 1 ॥ नमस्ते जगच्चिन्त्यमानस्वरूपेनमस्ते महायोगिविज्ञानरूपे ।नमस्ते नमस्ते सदानन्दरूपेनमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 2...
ईश्वर उवाच ।शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ 1 ॥ अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।न चाप्नोति...