॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ विदुर उवाच । योऽभ्यर्थितः सद्भिरसज्जमानःकरोत्यर्थं शक्तिमहापयित्वा ।क्षिप्रं यशस्तं समुपैति संतमलंप्रसन्ना हि सुखाय संतः ॥ 1॥ महांतमप्यर्थमधर्मयुक्तंयः संत्यजत्यनुपाक्रुष्ट...
रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥ संदर्शयन् बलाय स्वैरं वृंदावनश्रियं विमलाम् ।कांडीरैः सह बालैर्भांडीरकमागमो वटं क्रीडन् ॥2॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः...
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणिविदुरवाक्ये एकोनचत्वारिंशोऽध्यायः ॥ धृतराष्ट्र उवाच । अनीश्वरोऽयं पुरुषो भवाभवेसूत्रप्रोता दारुमयीव योषा ।धात्रा हि दिष्टस्य वशे किलायंतस्माद्वद त्वं श्रवणे घृतोऽहम् ॥ 1॥...
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणिविदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥ विदुर उवाच । ऊर्ध्वं प्राणा ह्युत्क्रामंति यूनः स्थविर आयति ।प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते ॥ 1॥ पीठं दत्त्वा साधवेऽभ्यागतायआनीयापः परिनिर्णिज्य पादौ...
रुचिरकंपितकुंडलमंडलः सुचिरमीश ननर्तिथ पन्नगे ।अमरताडितदुंदुभिसुंदरं वियति गायति दैवतयौवते ॥1॥ नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।परिमथन् पदपंकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥2॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।फणिपताववसीदति सन्नतास्तदबलास्तव...
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणिविदुरवाक्ये सप्तत्रिंशोऽध्यायः ॥ विदुर उवाच । सप्तदशेमान्राजेंद्र मनुः स्वायंभुवोऽब्रवीत् ।वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ 1॥ तानेविंद्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् ।अथो मरीचिनः पादाननाम्यान्नमतस्तथा...
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणिविदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥ विदुर उवाच । अत्रैवोदाहरंतीममितिहासं पुरातनम् ।आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ 1॥ चरंतं हंसरूपेण महर्षिं संशितव्रतम्...
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणिविदुरहितवाक्ये पंचत्रिंशोऽध्यायः ॥ धृतराष्ट्र उवाच । ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।श‍ऋण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ 1॥ विदुर उवाच ।...
॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणिविदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥ धृतराष्ट्र उवाच । जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ 1॥ त्वं मां यथावद्विदुर प्रशाधिप्रज्ञा...
अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् ।द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥1॥ अधिरुह्य पदांबुरुहेण च तंनवपल्लवतुल्यमनोज्ञरुचा ।ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरंग्गणे ॥2॥ भुवनत्रयभारभृतो भवतोगुरुभारविकंपिविजृंभिजला ।परिमज्जयति स्म धनुश्शतकंतटिनी झटिति स्फुटघोषवती ॥3॥ अथ...