आदिलक्ष्मिसुमनस वन्दित सुन्दरि माधवि, चन्द्र सहॊदरि हेममयेमुनिगण वन्दित मोक्षप्रदायनि, मञ्जुल भाषिणि वेदनुते ।पङ्कजवासिनि देव सुपूजित, सद्गुण वर्षिणि शान्तियुतेजय जयहे मधुसूदन कामिनि, आदिलक्ष्मि परिपालय माम् ॥...
दुर्गा शिवा महालक्ष्मी-र्महागौरी च चण्डिका ।सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ 1 ॥ सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा ।भूमिजा निर्गुणाऽऽधारशक्ति श्चानीश्वरी तथा ॥ 2 ॥ निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी ।सर्वलोकप्रिया...
प्रातः स्मरामि ललितावदनारविन्दंबिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।आकर्णदीर्घनयनं मणिकुण्डलाढ्यंमन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ 1 ॥ प्रातर्भजामि ललिताभुजकल्पवल्लींरक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।माणिक्यहेमवलयाङ्गदशोभमानांपुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ 2 ॥ प्रातर्नमामि ललिताचरणारविन्दंभक्तेष्टदाननिरतं भवसिन्धुपोतम् ।पद्मासनादिसुरनायकपूजनीयंपद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ 3 ॥ प्रातः स्तुवे...
चाम्पेयगौरार्धशरीरकायैकर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायैचितारजःपुञ्ज विचर्चिताय ।कृतस्मरायै विकृतस्मरायनमः शिवायै च नमः शिवाय ॥ 2 ॥ झणत्क्वणत्कङ्कणनूपुरायैपादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गदायनमः...
नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यांविरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥...
नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरीनिर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ।प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ 1 ॥ नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरीमुक्ताहार विलम्बमान विलसत्-वक्षोज...
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुतेगिरिवरविन्ध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ 1 ॥ सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरतेत्रिभुवनपोषिणि शङ्करतोषिणि...
प्रथम भागः – आनन्द लहरि भुमौस्खलित पादानां भूमिरेवा वलम्बनम् ।त्वयी जाता पराधानां त्वमेव शरणं शिवे ॥ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुंन चेदेवं देवो...
ॐ प्रकृत्यै नमःॐ विकृत्यै नमःॐ विद्यायै नमःॐ सर्वभूत हितप्रदायै नमःॐ श्रद्धायै नमःॐ विभूत्यै नमःॐ सुरभ्यै नमःॐ परमात्मिकायै नमःॐ वाचे नमःॐ पद्मालयायै नमः (10) ॐ पद्मायै...
वन्दे वन्दारु मन्दारमिन्दिरानन्दकन्दलम् ।अमन्दानन्दसन्दोह बन्धुरं सिन्धुराननम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्तीभृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिलविभूतिरपाङ्गलीलामाङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ 1 ॥ मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव...