जनक उवाच ॥ अकिञ्चनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभम् ।त्यागादाने विहायास्मादहमासे यथासुखम् ॥ 13-1॥ कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खिद्यते ।मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥...
जनक उवाच ॥ कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः ।अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः ॥ 12-1॥ प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः ।विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ॥ 12-2॥ समाध्यासादिविक्षिप्तौ व्यवहारः समाधये ।एवं विलोक्य नियममेवमेवाहमास्थितः...
हे स्वामिनाथ करुणाकर दीनबन्धो,श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।श्रीशादिदेवगणपूजितपादपद्म,वल्लीसनाथ मम देहि करावलम्बम् ॥ 1 ॥ देवादिदेवनुत देवगणाधिनाथ,देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,वल्लीसनाथ मम देहि करावलम्बम् ॥ 2 ॥ नित्यान्नदान निरताखिल रोगहारिन्,तस्मात्प्रदान...
अष्टावक्र उवाच ॥ भावाभावविकारश्च स्वभावादिति निश्चयी ।निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ 11-1॥ ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥ 11-2॥ आपदः सम्पदः...
अष्टावक्र उवाच ॥ विहाय वैरिणं काममर्थं चानर्थसङ्कुलम् ।धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥ 10-1॥ स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पञ्च वा ।मित्रक्षेत्रधनागारदारदायादिसम्पदः ॥ 10-2॥ यत्र यत्र भवेत्तृष्णा संसारं...
अष्टावक्र उवाच ॥ कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा ।एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती ॥ 9-1॥ कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् ।जीवितेच्छा बुभुक्षा च बुभुत्सोपशमं...
अष्टावक्र उवाच ॥ तदा बन्धो यदा चित्तं किञ्चिद् वाञ्छति शोचति ।किञ्चिन् मुञ्चति गृह्णाति किञ्चिद्धृष्यति कुप्यति ॥ 8-1॥ तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति ।न...
जनक उवाच ॥ मय्यनन्तमहाम्भोधौ विश्वपोत इतस्ततः ।भ्रमति स्वान्तवातेन न ममास्त्यसहिष्णुता ॥ 7-1॥ मय्यनन्तमहाम्भोधौ जगद्वीचिः स्वभावतः ।उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ॥ 7-2॥ मय्यनन्तमहाम्भोधौ...
जनक उवाच ॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् ।इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ 6-1॥ महोदधिरिवाहं स प्रपञ्चो वीचिसन्निभः ।इति ज्ञानं तथैतस्य न...
अष्टावक्र उवाच ॥ न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि ।सङ्घातविलयं कुर्वन्नेवमेव लयं व्रज ॥ 5-1॥ उदेति भवतो विश्वं वारिधेरिव बुद्बुदः ।इति ज्ञात्वैकमात्मानमेवमेव लयं व्रज ॥...