कंसोऽथ नारदगिरा व्रजवासिनं त्वा-माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।आहूय कार्मुकमखच्छलतो भवन्त-मानेतुमेनमहिनोदहिनाथशायिन् ॥1॥ अक्रूर एष भवदङ्घ्रिपरश्चिरायत्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-मानन्दभारमतिभूरितरं बभार ॥2॥ सोऽयं रथेन सुकृती भवतो निवासंगच्छन्...
यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।त्वां सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः ॥1॥ गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरापतत्त्वाम् ॥2॥ तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य...
इति त्वयि रसाकुलं रमितवल्लभे वल्लवाःकदापि पुरमम्बिकामितुरम्बिकाकानने ।समेत्य भवता समं निशि निषेव्य दिव्योत्सवंसुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥1॥ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला-दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।तदा खलु पदा...
केशपाशधृतपिञ्छिकाविततिसञ्चलन्मकरकुण्डलंहारजालवनमालिकाललितमङ्गरागघनसौरभम् ।पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरंरासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥1॥ तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डलेगण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥2॥ वासुदेव तव भासमानमिह रासकेलिरससौरभंदूरतोऽपि खलु...
तव विलोकनाद्गोपिकाजनाः प्रमदसङ्कुलाः पङ्कजेक्षण ।अमृतधारया सम्प्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥1॥ तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥2॥ तव विभोऽपरा...
स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥1॥ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द् तिरोहितोऽभूः ॥2॥ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।भवानुपादाय गतो...
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥1॥ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥2॥...
गोपीजनाय कथितं नियमावसानेमारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।सान्द्रेण चान्द्रमहसा शिशिरीकृताशेप्रापूरयो मुरलिकां यमुनावनान्ते ॥1॥ सम्मूर्छनाभिरुदितस्वरमण्डलाभिःसम्मूर्छयन्तमखिलं भुवनान्तरालम् ।त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य-स्तत्तादृशं कमपि चित्तविमोहमापुः ॥2॥ ता गेहकृत्यनिरतास्तनयप्रसक्ताःकान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।सर्वं विसृज्य...
आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥1॥ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावत् बहुमानभारः ॥2॥ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह...
ददृशिरे किल तत्क्षणमक्षत-स्तनितजृम्भितकम्पितदिक्तटाः ।सुषमया भवदङ्गतुलां गताव्रजपदोपरि वारिधरास्त्वया ॥1॥ विपुलकरकमिश्रैस्तोयधारानिपातै-र्दिशिदिशि पशुपानां मण्डले दण्ड्यमाने ।कुपितहरिकृतान्नः पाहि पाहीति तेषांवचनमजित श्रृण्वन् मा बिभीतेत्यभाणीः ॥2॥ कुल इह खलु गोत्रो दैवतं...