सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1॥ श्रीशैलश‍ऋङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ 2॥ अवन्तिकायां विहितावतारं...
कण्ठे यस्य लसत्करालगरलं गङ्गाजलं मस्तकेवामाङ्गे गिरिराजराजतनया जाया भवानी सती ।नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुःकाशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गलम् ॥ 1॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै-र्नागैर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये ।या गङ्गोत्तरवाहिनी परिसरे तीर्थेरसङ्ख्यैर्वृतासा काशी त्रिपुरारिराजनगरी देयात्सदा...
श्रीगणेशाय नमः ।ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्री मार्कण्डेय ऋषिः,अनुष्टुप्छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः,मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थंजपे विनोयोगः । ध्यानम्चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितंमुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभम् ।कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलंकान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं...
चाम्पेयगौरार्धशरीरकायैकर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायैचितारजःपुञ्ज विचर्चिताय ।कृतस्मरायै विकृतस्मरायनमः शिवायै च नमः शिवाय ॥ 2 ॥ झणत्क्वणत्कङ्कणनूपुरायैपादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गदायनमः...
कृपासागरायाशुकाव्यप्रदायप्रणम्राखिलाभीष्टसन्दायकाय ।यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहायप्रबोधप्रदात्रे नमः शङ्कराय ॥1॥ चिदानन्दरूपाय चिन्मुद्रिकोद्य-त्करायेशपर्यायरूपाय तुभ्यम् ।मुदा गीयमानाय वेदोत्तमाङ्गैःश्रितानन्ददात्रे नमः शङ्कराय ॥2॥ जटाजूटमध्ये पुरा या सुराणांधुनी साद्य कर्मन्दिरूपस्य शम्भोःगले मल्लिकामालिकाव्याजतस्तेविभातीति मन्ये गुरो किं...
विश्वेश्वराय नरकार्णव तारणायकर्णामृताय शशिशेखर धारणाय ।कर्पूरकान्ति धवलाय जटाधरायदारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 1 ॥ गौरीप्रियाय रजनीश कलाधरायकालान्तकाय भुजगाधिप कङ्कणाय ।गङ्गाधराय गजराज विमर्धनायदारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 2...
आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मांविण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुंक्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो...
॥ॐ ॐ॥ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ॥ 1 ॥ ॥ॐ नं॥नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥...
उमाकान्ताय कान्ताय कामितार्थ प्रदायिनेश्रीगिरीशाय देवाय मल्लिनाथाय मङ्गलम् ॥ सर्वमङ्गल रूपाय श्री नगेन्द्र निवासिनेगङ्गाधराय नाथाय श्रीगिरीशाय मङ्गलम् ॥ सत्यानन्द स्वरूपाय नित्यानन्द विधायनेस्तुत्याय श्रुतिगम्याय श्रीगिरीशाय मङ्गलम् ॥...
भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ 1 ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।पशूनाम्पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ 2 ॥ भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने ।रुद्राक्षमालाभूषाय...