त्वामेकदा गुरुमरुत्पुरनाथ वोढुंगाढाधिरूढगरिमाणमपारयन्ती ।माता निधाय शयने किमिदं बतेतिध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥1॥ तावद्विदूरमुपकर्णितघोरघोष-व्याजृम्भिपांसुपटलीपरिपूरिताशः ।वात्यावपुस्स किल दैत्यवरस्तृणाव-र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥2॥ उद्दामपांसुतिमिराहतदृष्टिपातेद्रष्टुं किमप्यकुशले पशुपाललोके ।हा बालकस्य किमिति...
कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा ।महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥1॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥2॥ ततस्तदाकर्णनसम्भ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।भवन्तमन्तर्ददृशुस्समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥3॥ शिशोरहो...
व्रजेश्वरैः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्वाम् ॥1॥ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥2॥ त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः...
तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम्।समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यमः ॥1॥ अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥2॥ इह च...
भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितोजलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥1॥ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-मपावृतकवाटिकां पशुपवाटिकामाविशन् ।भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा-द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥2॥ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।विमुक्तचिकुरोत्करस्त्वरितमापतन्...
आनन्दरूप भगवन्नयि तेऽवतारेप्राप्ते प्रदीप्तभवदङ्गनिरीयमाणैः ।कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-मावृण्वती विरुरुचे किल वर्षवेला ॥1॥ आशासु शीतलतरासु पयोदतोयै-राशासिताप्तिविवशेषु च सज्जनेषु ।नैशाकरोदयविधौ निशि मध्यमायांक्लेशापहस्त्रिजगतां त्वमिहाविरासीः ॥2॥ बाल्यस्पृशाऽपि वपुषा दधुषा विभूती-रुद्यत्किरीटकटकाङ्गदहारभासा ।शङ्खारिवारिजगदापरिभासितेनमेघासितेन...
सान्द्रानन्दतनो हरे ननु पुरा दैवासुरे सङ्गरेत्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् ।तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिताभूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥1॥ हा हा...
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधोजातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया ।दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा-नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥1॥ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतंब्रह्मद्वेषि...
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गेपुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातोरामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥1॥ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातोयातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां...
पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥1॥ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥2॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽम्बुपात्रेण मुनिः स्वगेहम्...