कदाचिद्गोपालान् विहितमखसम्भारविभवान्निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः ।विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा-नपृच्छः को वाऽयं जनक भवतामुद्यम इति ॥1॥ बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतोमखो वर्षे वर्षे सुखयति स वर्षेण...
ततश्च वृन्दावनतोऽतिदूरतोवनं गतस्त्वं खलु गोपगोकुलैः ।हृदन्तरे भक्ततरद्विजाङ्गना-कदम्बकानुग्रहणाग्रहं वहन् ॥1॥ ततो निरीक्ष्याशरणे वनान्तरेकिशोरलोकं क्षुधितं तृषाकुलम् ।अदूरतो यज्ञपरान् द्विजान् प्रतिव्यसर्जयो दीदिवियाचनाय तान् ॥2॥ गतेष्वथो तेष्वभिधाय तेऽभिधांकुमारकेष्वोदनयाचिषु प्रभो...
मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया ।यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥1॥ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥2॥ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।करुणामृदुलो नदीतटं...
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥1॥ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥2॥ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाऽभिरेमिरे ॥3॥ काननान्तमितवान्...
अष्टावक्र उवाच ॥ अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः ।तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ॥ 3-1॥ आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ 3-2॥ विश्वं स्फुरति यत्रेदं तरङ्गा इव...
जनक उवाच ॥ अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः ।एतावन्तमहं कालं मोहेनैव विडम्बितः ॥ 2-1॥ यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।अतो मम जगत्सर्वमथवा न च...
त्वयि विहरणलोले बालजालैः प्रलम्ब-प्रमथनसविलम्बे धेनवः स्वैरचाराः ।तृणकुतुकनिविष्टा दूरदूरं चरन्त्यःकिमपि विपिनमैषीकाख्यमीषाम्बभूवुः ॥1॥ अनधिगतनिदाघक्रौर्यवृन्दावनान्तात्बहिरिदमुपयाताः काननं धेनवस्ताः ।तव विरहविषण्णा ऊष्मलग्रीष्मताप-प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥2॥ तदनु सह सहायैर्दूरमन्विष्य शौरेगलितसरणिमुञ्जारण्यसञ्जातखेदम् ।पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा-त्त्वयि...
॥ श्री ॥ अथ श्रीमदष्टावक्रगीता प्रारभ्यते ॥ जनक उवाच ॥ कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ॥ 1-1॥ अष्टावक्र उवाच...
॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ विदुर उवाच । योऽभ्यर्थितः सद्भिरसज्जमानःकरोत्यर्थं शक्तिमहापयित्वा ।क्षिप्रं यशस्तं समुपैति सन्तमलंप्रसन्ना हि सुखाय सन्तः ॥ 1॥ महान्तमप्यर्थमधर्मयुक्तंयः सन्त्यजत्यनुपाक्रुष्ट...
रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥ सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् ।काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥2॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः...