ददृशिरे किल तत्क्षणमक्षत-स्तनितजृम्भितकम्पितदिक्तटाः ।सुषमया भवदङ्गतुलां गताव्रजपदोपरि वारिधरास्त्वया ॥1॥ विपुलकरकमिश्रैस्तोयधारानिपातै-र्दिशिदिशि पशुपानां मण्डले दण्ड्यमाने ।कुपितहरिकृतान्नः पाहि पाहीति तेषांवचनमजित श्रृण्वन् मा बिभीतेत्यभाणीः ॥2॥ कुल इह खलु गोत्रो दैवतं...
कदाचिद्गोपालान् विहितमखसम्भारविभवान्निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः ।विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा-नपृच्छः को वाऽयं जनक भवतामुद्यम इति ॥1॥ बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतोमखो वर्षे वर्षे सुखयति स वर्षेण...
ततश्च वृन्दावनतोऽतिदूरतोवनं गतस्त्वं खलु गोपगोकुलैः ।हृदन्तरे भक्ततरद्विजाङ्गना-कदम्बकानुग्रहणाग्रहं वहन् ॥1॥ ततो निरीक्ष्याशरणे वनान्तरेकिशोरलोकं क्षुधितं तृषाकुलम् ।अदूरतो यज्ञपरान् द्विजान् प्रतिव्यसर्जयो दीदिवियाचनाय तान् ॥2॥ गतेष्वथो तेष्वभिधाय तेऽभिधांकुमारकेष्वोदनयाचिषु प्रभो...
मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया ।यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥1॥ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥2॥ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।करुणामृदुलो नदीतटं...
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥1॥ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥2॥ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाऽभिरेमिरे ॥3॥ काननान्तमितवान्...
त्वयि विहरणलोले बालजालैः प्रलम्ब-प्रमथनसविलम्बे धेनवः स्वैरचाराः ।तृणकुतुकनिविष्टा दूरदूरं चरन्त्यःकिमपि विपिनमैषीकाख्यमीषाम्बभूवुः ॥1॥ अनधिगतनिदाघक्रौर्यवृन्दावनान्तात्बहिरिदमुपयाताः काननं धेनवस्ताः ।तव विरहविषण्णा ऊष्मलग्रीष्मताप-प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥2॥ तदनु सह सहायैर्दूरमन्विष्य शौरेगलितसरणिमुञ्जारण्यसञ्जातखेदम् ।पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा-त्त्वयि...
रामसखः क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥1॥ सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् ।काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥2॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः...
रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे ।अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥1॥ नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।परिमथन् पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥2॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।फणिपताववसीदति सन्नतास्तदबलास्तव...
अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् ।द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥1॥ अधिरुह्य पदाम्बुरुहेण च तंनवपल्लवतुल्यमनोज्ञरुचा ।ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरङ्ग्गणे ॥2॥ भुवनत्रयभारभृतो भवतोगुरुभारविकम्पिविजृम्भिजला ।परिमज्जयति स्म धनुश्शतकंतटिनी झटिति स्फुटघोषवती ॥3॥ अथ...
त्वत्सेवोत्कस्सौभरिर्नाम पूर्वंकालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।मीनव्राते स्नेहवान् भोगलोलेतार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥1॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुंमीनं कञ्चिज्जक्षतं लक्षयन् सः ।तप्तश्चित्ते शप्तवानत्र चेत्त्वंजन्तून् भोक्ता जीवितं चापि मोक्ता ॥2॥ तस्मिन्...