अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥1॥ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः ।गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवाऽऽरभथास्तदा यत् ॥2॥ कदापि रामेण समं वनान्ते...
अन्यावतारनिकरेष्वनिरीक्षितं तेभूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।ब्रह्मा परीक्षितुमनाः स परोक्षभावंनिन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥1॥ वत्सानवीक्ष्य विवशे पशुपोत्करे ता-नानेतुकाम इव धातृमतानुवर्ती ।त्वं सामिभुक्तकबलो गतवांस्तदानींभुक्तांस्तिरोऽधित सरोजभवः कुमारान् ॥2॥ वत्सायितस्तदनु गोपगणायितस्त्वंशिक्यादिभाण्डमुरलीगवलादिरूपः...
कदाचन व्रजशिशुभिः समं भवान्वनाशने विहितमतिः प्रगेतराम् ।समावृतो बहुतरवत्समण्डलैःसतेमनैर्निरगमदीश जेमनैः ॥1॥ विनिर्यतस्तव चरणाम्बुजद्वया-दुदञ्चितं त्रिभुवनपावनं रजः ।महर्षयः पुलकधरैः कलेबरै-रुदूहिरे धृतभवदीक्षणोत्सवाः ॥2॥ प्रचारयत्यविरलशाद्वले तलेपशून् विभो भवति समं कुमारकैः...
तरलमधुकृत् वृन्दे वृन्दावनेऽथ मनोहरेपशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।हलधरसखो देव श्रीमन् विचेरिथ धारयन्गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥ विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितंददति चरणद्वन्द्वं वृन्दावने त्वयि पावने ।किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-सलिलधरणीगोत्रक्षेत्रादिकं कमलापते...
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥1॥ तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।इतः प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति ॥2॥ बृहद्वनं तत् खलु...
मुदा सुरौघैस्त्वमुदारसम्मदै-रुदीर्य दामोदर इत्यभिष्टुतः ।मृदुदरः स्वैरमुलूखले लग-न्नदूरतो द्वौ ककुभावुदैक्षथाः ॥1॥ कुबेरसूनुर्नलकूबराभिधःपरो मणिग्रीव इति प्रथां गतः ।महेशसेवाधिगतश्रियोन्मदौचिरं किल त्वद्विमुखावखेलताम् ॥2॥ सुरापगायां किल तौ मदोत्कटौसुरापगायद्बहुयौवतावृतौ ।विवाससौ केलिपरौ...
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥1॥ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे ।दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥2॥ सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा।मन्थदण्डमुपगृह्य पाटितं हन्त देव...
अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥1॥ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥2॥ अयि ते...
अयि सबल मुरारे पाणिजानुप्रचारैःकिमपि भवनभागान् भूषयन्तौ भवन्तौ ।चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा-श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥ मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौवदनपतितकेशौ दृश्यपादाब्जदेशौ ।भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौमतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥ अनुसरति जनौघे कौतुकव्याकुलाक्षेकिमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ...
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।हृद्गतहोरातत्त्वो गर्गमुनिस्त्वत् गृहं विभो गतवान् ॥1॥ नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् ।मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥2॥ यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन्...