त्वत्सेवोत्कस्सौभरिर्नाम पूर्वंकालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।मीनव्राते स्नेहवान् भोगलोलेतार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥1॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुंमीनं कञ्चिज्जक्षतं लक्षयन् सः ।तप्तश्चित्ते शप्तवानत्र चेत्त्वंजन्तून् भोक्ता जीवितं चापि मोक्ता ॥2॥ तस्मिन्...
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तयेस्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।नारीपीनपयोधरोरुयुगला स्वप्नेऽपि नालिङ्गितंमातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ 01 ॥ जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥...
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥ 01 ॥ एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥...
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।दारिद्र्यदुःखरोगाणि बन्धनव्यसनानि च ॥ 01 ॥ पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ 02 ॥ बहूनां चैव सत्त्वानां...
मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा ।न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥ 01 ॥ गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ 02...
सानन्दं सदनं सुतास्तु सुधियः कान्ता प्रियालापिनीइच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापराः सेवकाः ।आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहेसाधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥ 01 ॥ आर्तेषु विप्रेषु...
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।अभ्यासेन न लभ्यंते चत्वारः सहजा गुणाः ॥ 01 ॥ आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् ।स्वयमेव लयं याति यथा राजान्यधर्मतः ॥ 02 ॥ हस्ती...
धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥ 01 ॥ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत् ॥ 02...
मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ।क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥ 01 ॥ परस्परस्य मर्माणि ये भाषन्ते नराधमाः ।त एव विलयं यान्ति वल्मीकोदरसर्पवत् ॥ 02 ॥ गन्धः सुवर्णे फलमिक्षुदण्डेनाकरि...
अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥1॥ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः ।गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवाऽऽरभथास्तदा यत् ॥2॥ कदापि रामेण समं वनान्ते...